У нас вы можете посмотреть бесплатно गणेश अथर्वशीर्ष पाठ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
[Intro: Tanpura drone] ॐ गं गणपतये नम: ।। ॐ गं गणपतये नम: ।। [Style: Minimalist, Only Tanpura] [Verse: Simple vocal, slowly, no accompaniment] ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्व साक्षादात्माऽसि नित्यम् ।। ऋतं वच्मि । सत्यं वच्मि ।। अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अव अनूचानम् । अव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधस्तात् । सर्वतो मां पाहि-पाहि समन्तात् ।। त्वं वाङ्मयस्त्वं चिन्मय:। त्वमानन्दमसयस्त्वं ब्रह्ममय:। त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि ।। सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभ: । त्वं चत्वारि वाक्पदानि।। त्वं गुणत्रयातीत:। त्वं कालत्रयातीत:। त्वं देहत्रयातीत:। त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मक:। त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुव: स्वरोम् ।। गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् । अनुस्वार: परतर:। अर्धेन्दुलसितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् । गकार: पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरूत्तररूपम् । नाद: संधानम् । संहितासंधि: । सैषा गणेश विद्या। गणक ऋषि: निचृद् गायत्री छन्द:। गणपतिर्देवता । ॐ गं गणपतये नम: ।। एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । (एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । ) तन्नो दन्ती प्रचोदयात् ।। एकदन्तं चतुर्हस्तं पाशमड्कुशधारिणम् । रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम् ।। रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताड्गं रक्तपुष्पै: सुपुजितम् ।। भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृते: पुरुषात्परम् ।। एवं ध्यायति यो नित्यं स योगी योगिनां वर: ।। नमो व्रातपतये नमो गणपतये नम: प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नम: ।। एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स सर्व विघ्नैर्न बाध्यते। स सर्वत: सुखमेधते। स पञ्चमहापापात्प्रमुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । सर्वत्राधीयानोsपविघ्नो भवति । धर्म-अर्थ-काम-मोक्षं च विन्दति । इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद्दास्यति स पापीयान् भवति । सहस्रावर्तनाद् यं यं काममधीते तं तमनेन साधयेत् ।। अनेन गणपतिमभिषिञ्चति स वाग्मी भवति । चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यात् । न बिभेति कदाचनेति ।। यो दूर्वाड्कुरैर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति स वाञ्छित फलम् अवाप्नोति । य: साज्यसमिद्भि: यजति स सर्वं लभते स सर्वं लभते ।। अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात् प्रमुच्यते । महापापात् प्रमुच्यते । महादोषात् प्रमुच्यते । महापापात् प्रमुच्यते। स सर्वविद् भवति । स सर्वविद् भवति । य एवं वेद ।। यो मोदकसहस्रेण यजति स वाञ्छित फलम् अवाप्नोति । [Outro: Tanpura fades out]