У нас вы можете посмотреть бесплатно मन्त्रात्मकं श्रीमारुतिस्तोत्रम् । или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ॐ नमो वायुपुत्राय भीमरूपाय धीमते । नमस्ते रामदूताय कामरूपाय श्रीमते ॥ १ ॥ मोहशोकविनाशाय सीताशोकविनाशिने । भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ॥ २ ॥ गतिनिर्जितवाताय लक्ष्मणप्राणदाय च । वनौकसां वरिष्ठाय वशिने वनवासिने ॥ ३ ॥ तत्त्वज्ञानसुधासिन्धुनिमग्नाय महीयसे । आञ्जनेयाय शूराय सुग्रीवसचिवाय ते ॥ ४ ॥ जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च । नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे ॥ ५ ॥ यातनानाशनायास्तु नमो मर्कटरूपिणे । यक्षराक्षसशार्दूलसर्पवृश्चिकभीहृते ॥६॥ महाबलाय वीराय चिरंजीविन उद्धते । हारिणे वज्रदेहाय चोल्लङ्गितमहाब्धये ॥ ७ ॥ बलिनामग्रगण्याय नमो नः पाहि मारुते । लाभदोऽसि त्वमेवाशु हनुमन् राक्षसान्तक ॥ ८ ॥ यशो जयं च मे देहि शत्रून् नाशय नाशय । स्वाश्रितानामभयदं य एवं स्तौति मारुतिम् । हानिः कुतो भवेत्तस्य सर्वत्र विजयी भवेत् ॥ ९ ॥