У нас вы можете посмотреть бесплатно NRUSINGHASHTKAM श्रीषोडशबाहुनृसिंहाष्टकम् (श्री ६ श्री गुरु श्री शिव दत्त स्मारक गड्डी,जोधपुर ) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
॥ श्रीषोडशबाहुनृसिंहाष्टकम् ॥ भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः । तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥१॥ भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलद्ज्वालमालं खर्जर्जं खर्जदुर्जं खिखचखचखचि- -त्खर्जदुर्जर्जयन्तम् । भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥२॥ एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः । दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥३॥ शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं बिभ्रन्तं वज्रखेटं हलमुसलगदा- -कुन्तमत्युग्रदंष्ट्रम् । ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥४॥ पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः । दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥५॥ नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रम् । गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥६॥ के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः । शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥७॥ झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारम् । वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥८॥ भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयम् । सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥९॥ ॥ इति श्रीविजयीन्द्रयतिकृतं श्रीषोडशबाहुनृसिंहाष्टकं सम्पूर्णम् ॥