У нас вы можете посмотреть бесплатно श्री दत्तात्रेय प्रोक्त सौभाग्याष्टोत्तरशतनाम स्तोत्रम् | Saubhagya Ashtottara Shatanama Stotram или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
श्री दत्तात्रेय प्रोक्त सौभाग्याष्टोत्तरशतनाम स्तोत्रम् सौभाग्याष्टोत्तरशतनाम स्तोत्रम् Saubhagya Ashtottara Shatanama Stotram सौभाग्य अष्टोत्तरशतनाम स्तोत्रम् सौभाग्य अष्टोत्तरशतनाम स्तोत्र Saubhagya Ashtottara Shatanama Stotra निशम्यैतज्जामदग्यो माहात्म्यं सर्वतोऽधिकम् । स्तोत्रस्य भूयः पप्रच्छ दत्तात्रेयं गुरूत्तमम् ॥ १ ॥ भगवन् त्वन्मुखाम्भोजनिर्गमद्वाक्सुधारसम्। पिबतः श्रोत्रमुखतो वर्धतेऽनुक्षणं तृषा ॥ २ ॥ अष्टोत्तरशतं नाम्नां श्रीदेव्या यत्प्रसादतः । कामः सम्प्राप्तवान् लोके सौभाग्यं सर्वमोहनम् ॥ ३ ॥ सौभाग्यविद्यावर्णानामुद्धारो यत्र संस्थितः। तत्समाचक्ष्व भगवन् कृपया मयि सेवके ॥ ४ ॥ निशम्यैवं भार्गवोक्तिं दत्तात्रेयो दयानिधिः। प्रोवाच भार्गवं रामं मधुराऽक्षरपूर्वकम् ॥ ५ ॥ शृणु भार्गव यत्पृष्टं नाम्नामष्टोत्तरं शतम् । श्रीविद्यावर्णरत्नानां निधानमिव संस्थितम् ॥ ६ ॥ श्रीदेव्या बहुधा सन्ति नामानि शृणु भार्गव । सहस्रशतसङ्ख्यानि पुराणेष्वागमेषु च ॥ ७ ॥ तेषु सारतमं ह्येतत्सौभाग्याष्टोत्तरात्मकम् । यदुवाच शिवः पूर्वं भवान्यै बहुधार्थितः ॥ ८ ॥ सौभाग्याष्टोत्तरशतनामस्तोत्रस्य भार्गव । ऋषिरुक्तः शिवश्छन्दोऽनुष्टुप् श्रीललिताम्बिका ॥ ९ ॥ देवता विन्यसेत्कूटत्रयेणावर्त्य सर्वतः । ध्यात्वा सम्पूज्य मनसा स्तोत्रमेतदुदीरयेत् ॥ १० ॥ अथ स्तोत्रम् ॥ कामेश्वरी कामशक्तिः कामसौभाग्यदायिनी। कामरूपा कामकला कामिनी कमलासना ।। ११ ।। कमला कल्पनाहीना कमनीयकलावती । कमलाभारतीसेव्या कल्पिताऽशेषसंसृतिः ॥ १२ ॥ अनुत्तराऽनघाऽनन्ताऽद्भुतरूपाऽनलोद्भवा। अतिलोकचरित्राऽतिसुन्दर्यतिशुभप्रदा ॥ १३ ॥ अघहन्त्र्यतिविस्ताराऽर्चनतुष्टाऽमितप्रभा । एकरूपैकवीरैकनाथैकान्ताऽर्चनप्रिया ॥ १४ ॥ एकैकभावतुष्टैकरसैकान्तजनप्रिया । एधमानप्रभावैधद्भक्तपातकनाशिनी ॥ १५ ॥ एलामोदमुखैनोऽद्रिशक्रायुधसमस्थितिः । ईहाशून्येप्सितेशादिसेव्येशानवराङ्गना ॥ १६ ॥ ईश्वराऽऽज्ञापिकेकारभाव्येप्सितफलप्रदा । ईशानेतिहरेक्षेषदरुणाक्षीश्वरेश्वरी ॥ १७॥ ललिता ललनारूपा लयहीना लसत्तनुः । लयसर्वा लयक्षोणिर्लयकर्णी लयात्मिका ॥ १८ ॥ लघिमा लघुमध्याऽऽढ्या ललमाना लघुद्रुता । हयाऽऽरूढा हताऽमित्रा हरकान्ता हरिस्तुता ॥ १९ ॥ हयग्रीवेष्टदा हालाप्रिया हर्षसमुद्धता । हर्षणा हल्लकाभाङ्गी हस्त्यन्तैश्वर्यदायिनी ॥ २० ॥ हलहस्तार्चितपदा हविर्दानप्रसादिनी । राम रामाऽर्चिता राज्ञी रम्या रवमयी रतिः ॥ २१ ॥ रक्षिणी रमणी राका रमणीमण्डलप्रिया । रक्षिताऽखिललोकेशा रक्षोगणनिषूदिनी ॥ २२ ॥ अम्बान्तकारिण्यम्भोजप्रियाऽन्तकभयङ्करी। अम्बुरूपाम्बुजकराम्बुजजातवरप्रदा ॥ २३॥ अन्तःपूजाप्रियान्तःस्वरूपिण्यन्तर्वचोमयी। अन्तकारातिवामाङ्कस्थितान्तःसुखरूपिणी ॥ २४ ॥ सर्वज्ञा सर्वगा सारा समा समसुखा सती। सन्ततिः सन्तता सोमा सर्वा साङ्ख्या सनातनी ॥ २५ ॥ अथ फलश्रुतिः ॥ एतत्ते कथितं राम नाम्नामष्टोत्तरं शतम् । अतिगोप्यमिदं नाम्नः सर्वतः सारमुद्धृतम् ॥ २६ ॥ एतस्य सदृशं स्तोत्रं त्रिषु लोकेषु दुर्लभम्। अप्रकाश्यमभक्तानां पुरतो देवताद्विषाम् ॥ २७ ॥ एतत् सदाशिवो नित्यं पठन्त्यन्ये हरादयः। एतत्प्रभावात्कन्दर्पस्त्रैलोक्यं जयति क्षणात् ॥ २८ ॥ सौभाग्याष्टोत्तरशतनामस्तोत्रं मनोहरम् । यस्त्रिसन्ध्यं पठेन्नित्यं न तस्य भुवि दुर्लभम् ॥ २९ ॥ श्रीविद्योपासनवतामेतदावश्यकं मतम् । सकृदेतत्प्रपठतां नान्यत्कर्म विलुप्यते ॥ ३० ॥ अपठित्वा स्तोत्रमिदं नित्यं नैमित्तिकं कृतम् । व्यर्थीभवति नग्नेन कृतं कर्म यथा तथा ॥ ३१ ॥ सहस्रनामपाठादावशक्तस्त्वेतदीरयेत् । सहस्रनामपाठस्य फलं शतगुणं भवेत् ॥ ३२ ॥ सहस्रधा पठित्वा तु वीक्षणान्नाशयेद्रिपून्। करवीररक्तपुष्पैर्दुत्वा लोकान् वशं नयेत् ॥ ३३ ॥ स्तम्भेयत् श्वेतकुसुमैर्नीलैरुच्चाटयेद्रिपून् । मरिचैर्विद्वेषणाय लवङ्गैर्व्याधिनाशने ॥ ३४ ॥ सुवासिनीर्बाह्मणान् वा भोजयेद्यस्तु नामभिः । यश्च पुष्पैः फलैर्वापि पूजयेत् प्रतिनामभिः ॥ ३५ ॥ चक्रराजेऽथवान्यत्र स वसेच्छ्रीपुरे चिरम्। यः सदा वर्तयन्नास्ते नामाष्टशतमुत्तमम् । तस्य श्रीललिता राज्ञी प्रसन्ना वाञ्छितप्रदा ॥ ३६ ॥ इति श्रीत्रिपुरारहस्ये माहात्म्यखण्डे षड्विंशोऽध्याये दत्तात्रेय प्रोक्त सौभाग्याष्टोत्तरशतनाम स्तोत्रम् । maa laxmi mantra Maa Laxmi: • Maa Laxmi #granthamrut #ग्रंथामृत #prosperity #mantra for prosperity #Prosperity mantra #Saubhagya ashtottara shatanama stotram #श्री सौभाग्य अष्टोत्तर शतनाम स्तोत्र #mantra for money #Success mantra #mantra to get rich #laxmi mantra #stotram #stuti