У нас вы можете посмотреть бесплатно श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रम् | Ucchista Ganapati Stotram или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रम् | Ucchista Ganapati Stotram उच्छिष्टगणेशस्तोत्रम् उच्छिष्ट गणेश स्तोत्रम् उच्छिष्ट गणपति स्तोत्रम् Ucchista Ganesh Stotram देव्युवाच । नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् । गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १ ॥ केयूरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि । सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २ ॥ षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च । संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३ ॥ वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् । स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥ ४ ॥ भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः । गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमोऽरिनेत्रम् ॥ ५ ॥ शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् । भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६ ॥ पितुर्जटाजूटतटे सदैव भागीरथी तत्र कुतूहलेन । विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥ ७ ॥ लम्बोदरो देवकुमारसङ्घः क्रीडन्कुमारं जितवान्निजेन । करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥ ८ ॥ आगत्य योच्चैर्हरिनाभिपद्म ददर्श तत्राशु करेण तच्च । उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेशः ॥ ९ ॥ निरन्तरं संस्कृतदानपट्टे लग्नां तु गुञ्जद्भमरावलीं वै । तं श्रोत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥ १० ॥ विश्वेशमौलिस्थितजहुकन्या जलं गृहीत्वा निजपुष्करेण । हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥ ११ ॥ स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् । कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२ ॥ स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः । प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३ ॥ सिञ्चाम नागं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् । वक्तारमाद्यं नियमादिकानां लोकैकवन्द्यं प्रणमामि विघ्नम् ॥ १४ ॥ आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् । विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥ १५ ॥ हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः । मुनीन्सुरान्भक्तजनांश्च सर्वा- -न्स पातु रथ्यासु सदा गजास्यः ॥ १६ ॥ द्वैपायनोक्तानि स निश्चयेन स्वदन्तकोट्या निखिलं लिखित्वा । दन्तं पुराणं शुभमिन्दुमौलि- -स्तपोभिरुग्रं मनसा स्मरामि ॥ १७ ॥ क्रीडातटान्ते जलधाविभास्ये वेलाजले लम्बपतिः प्रभीतः । विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८ ॥ वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् । सर्वैश्च वन्यं न च तस्य वन्द्यः स्थाणोः परं रूपमसौ स पायात् ॥ १९ ॥ इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः । संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घ स विदारयेन्नः ॥ २० ॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तोत्रं समाप्तम् । All Shri Ganesh Stotram • Shri Ganesh #granthamrut #ग्रंथामृत #ganesh #ganapati stotram #ganesh stotra #mantra #ganesh mantra #ganpati bappa #ganpati stotram #lambodar #ucchista ganapati mantra japa #ucchista ganapati sadhana #uchhistha ganapati stavaraj #ganesh chaturthi ganesh mantra live ganesha pancharatnam with hindi lyrics ganesha pancharatnam with lyrics ganpati aarti ganpati songs kavacha strotam vakratunda stotram jai ganesh bhajans