У нас вы можете посмотреть бесплатно Sri Hanumat ChaturvimshatiH | Sacchidananda Shivabhinava Nrisimha Bharati Mahaswami или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Sri Hanumat ChaturvimshatiH Stotra- A comprehensive and exhaustive stotra on the glory of Lord Hanuman and his leelas by the 33rd Jagadguru of Dakshinamnaya Sringeri Peeta- Sacchidananda Shivabhinava Nrisimha Bharati Mahaswami. Curated by Carthik Shankar Rendition by Sringeri sisters . श्रीहनुमच्चतुर्विंशतिः यो बाल्येऽपि दिनेशं प्रोद्यन्तं पक्वदिव्यफलबुद्ध्या । व्युदपतदाशु हि पुष्करमादातुं नौमि तं समीरसुतम् ॥ १॥ यस्मै भगवान्ब्रह्मा प्रायच्छद्वायुतृप्तये पूर्वम् । विविधान्वरांस्तं वन्दे दुर्ज्ञेयदिव्यमहिमानम् ॥ २॥ सुरसावदनं विपुलं तरसा गत्वा विनिर्गतं दृष्ट्वा । यं सुरनिकरा विस्मयमाजग्मुर्नौमि तं महाप्राज्ञम् ॥ ३॥ लङ्कापुराधिदैवतगर्वं वेगाच्चपेटिकादानात् । निर्मूलं यश्चक्रे वन्दे तं वायुसूनुममितबलम् ॥ ४॥ गोष्पदवत्सरितांनिधिमुल्लङ्घ्याशोकविपिनगां सीताम् । अद्राक्षीद्भयरहितो यस्तं प्रणमामि शिंशुपामूले ॥ ५॥ रामादेशश्रवणानन्दादुद्धूतशोकगन्धां यः । सीतां चक्रे मतिमांस्तमहं प्रणमामि शोकविच्छित्त्यै ॥ ६॥ योऽक्षकुमारप्रमुखान्प्रवरान्दनुजाञ्जघान कुतुकेन । एकः सहायरहितस्तमहं प्रणमामि गन्धवहसूनुम् ॥ ७॥ प्राप्य मणिं सीतायाः काननमसुरस्य सत्वरं भङ्क्त्वा । दग्ध्वा लङ्कां योऽगाद्रघुवरनिकटं स मामवतु ॥ ८॥ सीताप्रोदितवचनान्यशेषतो यो निवेद्य रघुवीरम् । चक्रे चिन्तारहितं वन्दे तं चिन्तितार्थदं नमताम् ॥ ९॥ समरे वक्षसि येन प्रहतः संमूर्छितः ससंज्ञोऽथ । प्रशशंस रावणो यं तमतिबलानन्दवर्धनं नौमि ॥ १०॥ ओषधिगिरिमतिवेगान्नत्वाऽऽनीय प्रवृद्धदिव्यतनुः । यो लक्ष्मणासुदानं चक्रे तं नौमि गरुडनिभवेगम् ॥ ११॥ रघुपतिमुखारविन्दस्रवदागमशीर्षतत्त्वमकरन्दम् । आपीयागलमनिशं नन्दन्तं नौमि पवनमूलधनम् ॥ १२॥ कनकाद्रिसदृशकायं कनकप्रदमाशु नम्रजनपङ्क्तेः । रक्ताम्बुजास्यमीडे सक्तान्तःकरणमिनकुलोत्तंसे ॥ १३॥ कारुण्यजन्मभूमिं काकुत्स्थाङ्घ्र्यब्जपूजनासक्तम् । कालाहितभयरहितं कामविदूरं नमामि कपिमुख्यम् ॥ १४॥ कुण्डलभासिकपोलं मण्डलमङ्घ्रिप्रणम्रजन्तूनाम् । कुर्वन्तमीप्सितार्थैः सर्वैर्युक्तं भजेऽञ्जनासूनुम् ॥ १५॥ नयनजितहेमगर्वं नवनयपारीणमञ्जनातनयम् । गतिविजितजनककीर्तिं मतिमतिनिशितां ददानमहमीडे ॥ १६॥ पुरतो भव करुणाब्धे भरताग्रजरणलग्नचित्ताब्ज । हर मम निखिलां चिन्तां करजितपाथोज कलितवटुरूप ॥ १७॥ रविसुतमन्त्रिवरेण्यं पविताडनसहनदक्षदिव्यहनुम् । कविशिष्यहरणचतुरं सवितृविनेयं नमामि वातसुतम् ॥ १८॥ वक्षस्ताडितशैलं रक्षःपतिसैन्यमर्दनप्रवणम् । रक्षाकरं नमस्याम्यक्षाधिपदूतमनिलपुण्यचयम् ॥ १९॥ सुरदेशिकसदृशगिरं करजैर्हीरस्य कठिनतागर्वम् । नरशृङ्गतां नयन्तं नरमनिशं नौमि वाद्यमनिलसुतम् ॥ २०॥ श्रीपारिजातपादपमूले वासं करोषि किं हनुमन् । अध्येतुमवनताखिलवाञ्छितदातृत्वमवनिजेड्दूत ॥ २१॥ पुरदग्धारं मनसिजजेतारं भक्तमन्तुसहनचणम् । त्वामीशानं के वा न ब्रुवते ब्रूहि वायुसूनो मे ॥ २२॥ पुरदग्धारं मनसिजजेतारं रामनामरुचिविज्ञम् । हनुमन्भवन्तमीशं वदति न कः प्रणतसर्वदोषसहम् ॥ २३॥ सहमानापरमूर्ते सहस्व मानाथदूत मम मन्तून् । पवमानपुण्यराशे प्लवमानाब्धौ नमामि तव चरणौ ॥ २४॥ . . #hanuman #ramayan #sringerijagadguru #music #devotionalsongs #bhakti #bhajan