У нас вы можете посмотреть бесплатно Maa Saraswati || श्रीसरस्वतीस्तोत्रम् ॥ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
॥ श्रीसरस्वतीस्तोत्रम् ॥ ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ सरस्वत्यै च विद्महे । वागर्थायै च धीमहि । तन्नो वाणी प्रचोदयात् ॥ ध्यानम् नमस्तुभ्यं वरे देवि वीणापुस्तकधारिणि । विद्यासम्पत्तिदे वाणि सरस्वति नमोस्तु ते ॥ १॥ ऐंबीजपूजिते देवि वीणासङ्गीतमोदिते । ज्ञानमोक्षकविस्फूर्ते सरस्वति नमोस्तु ते ॥ २॥ वाग्देवीं स्वरमाधुर्यां सङ्गीतकवितावराम् । वीणापुस्तकसंवासां वाणीं वन्दे सरस्वतीम् ॥ ३॥ वीणागानप्रवीणां च विद्याकूटविलासिनीम् । गानमाधुर्यवाचं च वाणीं वन्दे सरस्वतीम् ॥ ४॥ वीणासयुक्तकण्ठां च वीणाऽभेदमृदुस्वराम् । वीणासुस्वरसानन्दां वाणीं वन्दे सरस्वतीम् ॥ ५॥ ज्ञानमोक्षप्रदात्रीं च ज्ञानिसज्जनवल्लभाम् । ज्ञानसद्गुरुरूपां च वाणीं वन्दे सरस्वतीम् ॥ ६॥ वागर्थपुष्टिसंयुक्तां वाग्वर्णवर्णमालिकाम् । वाक्सम्पत्सम्प्रदात्रीं च वाणीं वन्दे सरस्वतीम् ॥ ७॥ गङ्गाप्रवाहवाग्वर्षां वाक्शब्दलयवासिनीम् । श्लोकशैलीसुनृत्यां च वाणीं वन्दे सरस्वतीम् ॥ ८॥ रागतालगतिस्थाम्बां लयलास्यसुवाचिकाम् । कवितोल्लोललोलां च वाणीं वन्दे सरस्वतीम् ॥ ९॥ शारदां स्वरसामोदां रागदां वरदां वराम् । वरसुस्वरविद्यां च वाणीं वन्दे सरस्वतीम् ॥ १०॥ श्वेतपुष्पासनासन्नां श्वेतमुत्यस्मिताननाम् । श्वेतवस्त्रसुभूषां च वाणीं वन्दे सरस्वतीम् ॥ ११॥ हिमश्वेतालयां श्वेतां हिमशृङ्गविकासिनीम् । हिमश्वेतासरां गङ्गां वाणीं वन्दे सरस्वतीम् ॥ १२॥ संसारतापशाम्यां च संसारदुःखमोचनीम् । सङ्गीतसत्सुखावाहां स्तुत्यां वन्दे सरस्वतीम् ॥ १३॥ त्यागराजसुवाक्संस्थां शिष्यापुष्पानुतिस्थिराम् । सङ्गीतसुस्वरां वाणीं ब्राह्मीं वन्दे सरस्वतीम् ॥ १४॥ सरस्वत्यर्पणं स्तोत्रं सरस्वत्याः कृपोद्भवम् । सरस्वत्यर्चनं श्रेष्ठं सरस्वत्याः कृपावहम् ॥ १५॥ मङ्गलं मातृकायै च सरस्वत्यै सुमङ्गलम् । वाण्यै सङ्गीतवाण्यै च गीर्वाण्यै शुभमङ्गलम् ॥ १६॥ ॐ शुभमस्तु ।ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ सरस्वत्यै च विद्महे । वागर्थायै च धीमहि । तन्नो वाणी प्रचोदयात् ॥ ध्यानम् नमस्तुभ्यं वरे देवि वीणापुस्तकधारिणि । विद्यासम्पत्तिदे वाणि सरस्वति नमोस्तु ते ॥ १॥ ऐंबीजपूजिते देवि वीणासङ्गीतमोदिते । ज्ञानमोक्षकविस्फूर्ते सरस्वति नमोस्तु ते ॥ २॥ वाग्देवीं स्वरमाधुर्यां सङ्गीतकवितावराम् । वीणापुस्तकसंवासां वाणीं वन्दे सरस्वतीम् ॥ ३॥ वीणागानप्रवीणां च विद्याकूटविलासिनीम् । गानमाधुर्यवाचं च वाणीं वन्दे सरस्वतीम् ॥ ४॥ वीणासयुक्तकण्ठां च वीणाऽभेदमृदुस्वराम् । वीणासुस्वरसानन्दां वाणीं वन्दे सरस्वतीम् ॥ ५॥ ज्ञानमोक्षप्रदात्रीं च ज्ञानिसज्जनवल्लभाम् । ज्ञानसद्गुरुरूपां च वाणीं वन्दे सरस्वतीम् ॥ ६॥ वागर्थपुष्टिसंयुक्तां वाग्वर्णवर्णमालिकाम् । वाक्सम्पत्सम्प्रदात्रीं च वाणीं वन्दे सरस्वतीम् ॥ ७॥ गङ्गाप्रवाहवाग्वर्षां वाक्शब्दलयवासिनीम् । श्लोकशैलीसुनृत्यां च वाणीं वन्दे सरस्वतीम् ॥ ८॥ रागतालगतिस्थाम्बां लयलास्यसुवाचिकाम् । कवितोल्लोललोलां च वाणीं वन्दे सरस्वतीम् ॥ ९॥ शारदां स्वरसामोदां रागदां वरदां वराम् । वरसुस्वरविद्यां च वाणीं वन्दे सरस्वतीम् ॥ १०॥ श्वेतपुष्पासनासन्नां श्वेतमुत्यस्मिताननाम् । श्वेतवस्त्रसुभूषां च वाणीं वन्दे सरस्वतीम् ॥ ११॥ हिमश्वेतालयां श्वेतां हिमशृङ्गविकासिनीम् । हिमश्वेतासरां गङ्गां वाणीं वन्दे सरस्वतीम् ॥ १२॥ संसारतापशाम्यां च संसारदुःखमोचनीम् । सङ्गीतसत्सुखावाहां स्तुत्यां वन्दे सरस्वतीम् ॥ १३॥ त्यागराजसुवाक्संस्थां शिष्यापुष्पानुतिस्थिराम् । सङ्गीतसुस्वरां वाणीं ब्राह्मीं वन्दे सरस्वतीम् ॥ १४॥ सरस्वत्यर्पणं स्तोत्रं सरस्वत्याः कृपोद्भवम् । सरस्वत्यर्चनं श्रेष्ठं सरस्वत्याः कृपावहम् ॥ १५॥ मङ्गलं मातृकायै च सरस्वत्यै सुमङ्गलम् । वाण्यै सङ्गीतवाण्यै च गीर्वाण्यै शुभमङ्गलम् ॥ १६॥ ॐ शुभमस्तु ।