У нас вы можете посмотреть бесплатно HIMACHALI NATI IN SANSKRIT - A Sugyan Kumar Mahanty Production или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
HIMACHALI NATI IN SANSKRIT LYRICS BY DR. SUGYAN KUMAR MAHANTY SINGERS - MR. GAURAV & MISS BHAVANA (STEERING) ASSOCIATES - ARUNA,RAJANI & AMARJEET, MUSIC DIRECTOR - MR. SURENDRA NEGI नाटी बहुवैचित्र्यपूर्ण-कला-संस्कृति-साहित्य-ऐतिह्यादिप्रथापरम्पराः बिभ्रती रमणीया अस्माकं भारतभूमिः विश्वस्मिन् विश्वे श्रेष्ठत्वं भजते। तत्रापि नगाधिराजशिरोभूषणायमानस्य हिमाचलप्रदेशस्य अनुपमप्रकृतिसम्भारेण समृद्धं पुष्कलललितलोककलाजुष्टं वैभवं किमप्यनवद्यं हृद्यञ्च चमत्कारं पुष्णाति। तत्र च हिमाचलप्रदेशस्य प्रसिद्धं लोकगीतं नाटीति। इयं च नाटी संस्कृतभाषया हिमाचलसंस्कृतिमाधारीकृत्य रचितास्ति। हे देव ममलेश्वर ! हे मम कुलदेवते ! दुन्दुभि-पटह-मृदङ्गैः मुखरितमन्दिरसुन्दरम्॥ हे देव ममलेश्वर ! हे मम कुलदेवते ! जय जय शम्भो ! जय शम्भो ! जय जय देव शिरगुलदेव ! नगाधिराजशिखरविलासिन् ! त्वं मम हृदयनिकुञ्जनिवासी॥ सकलविकलकुलशमनपरायण ! भवभयकारणतारणवारण ! जय जय शम्भो ! जय शम्भो ! जय जय देव शिरगुलदेव ! पश्येयं सा मत्तं याति पश्येयं सा याति मत्तम्। नीलपीतवसनभूषा अवतंसाभ्यां रमणीया सा॥ अवतंसाभ्यां रमणीया सा । अये ….. सभ्रूभङ्गा वक्रा दृष्टिः कुतः एति अयि मे दयिते ! पश्येयं सा मत्तं याति पश्येयं सा याति मत्तम्। इयमङुली मे च्छिन्ना निशितकर्तरीभिन्ना। पश्यतस्तव लावण्यं सौन्दर्यश्रीसम्भारम्। मन्दमनोहरसञ्चारं हंसीगमनसमलास्यम्। दूरं नीतं मम चित्तं गिरिवरनिर्झरजलसिक्तम्।। इयमङुली मे च्छिन्ना निशितकर्तरीभिन्ना। आयाहि श्यालि ! मे प्रियालि ! मधुरसुमरसपानं कुर्वः। मुग्धोऽहं तव मयूरगत्या नयनमार्गणैः तीव्रं हतः॥ दग्धोऽस्मि तव नाशाभूषया, आयाहि श्यालि ! मे प्रियालि ! मधुरसुमरसपानं कुर्वः। चम्बापत्तनं नदीद्वयीपारे अहो दृश्यं कियद् रम्यम्॥ चम्बा सरिद्द्वयीसंवीता अहो दृश्यं कियद् रम्यम्॥ इयं पुण्या सुदिव्याभा अहो दृश्यं कियदिदं रम्यम्॥ यमय स्वीयं हृदयबिम्बं मदीयचित्तं त्वयि अनुरक्तम्। त्वं हि मे प्राणाः, त्वं च मे जीवः, त्वं मनः। अपाङ्गलास्यं तव सविलासं, छनन छन छन नूपुररणनम्॥ भिन्दति मदीयं मानसकुसुमं छिन्दति प्रसभं चित्तं सूत्रम्। यमय स्वीयं हृदयबिम्बं मदीयचित्तं त्वयि अनुरक्तम्॥ अधरस्तव किसलयं नेत्रे ते कुवलये ! कश्मीरीया कलिः त्वं मे मोहिनि ! कश्मीरीया कलिः त्वं मे मोहिनि ! मोहिनि ! मोहिनि !.........मे मोहिनि ! अलिके तव बिन्दुः नयनयोः कज्जलं भिन्दतीव मनो मे मोहिनि ! अयि मोहिनि ! मयूरीव गच्छसि मृगीव त्वं पश्यसि शोणं तव गण्डं मोहिनि ! अयि मोहिनि ! रचयिता सुज्ञानकुमारमाहान्तिः राष्ट्रियसंस्कृतसंस्थानम् वेदव्यासपरिसरः, बलाहरः, हि.प्र.