У нас вы можете посмотреть бесплатно Shri Sarvottam Stotram | श्री सर्वोत्तम स्तोत्रम् | Shri Vallabh Acharyaji | Nitya path или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Shree Sarvotam Stotra #music #lyrics #2026 #havelisangeet श्री सर्वोत्तम स्तोत्रम् प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति। निगमप्रतिपाद्यं यत्तच्छुद्धं साकृति स्तौमि ॥१॥ कलिकालतमश्छन्न दृष्टित्वाद्विदुषामपि । संप्रत्यविषयस्तस्य माहात्म्यं समभूद् भुवि ।।२।। दयया निजमाहात्म्यं करिष्यन् प्रकटं हरिः । वाण्या यदा तदा स्वास्यं प्रादुर्भुतं चकार हि ।।३।। तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा । तन्नामाष्टोत्तरशतं प्रवक्ष्याम्यखिलाघहृत् ।।४।। ऋषिरग्निकुमारस्तु नाम्नां छंदो जगत्यसौ । श्रीकृष्णास्यंदेवता च बीजं कारुणिकः प्रभुः ।।५।। विनियोगो भक्तियोगः प्रतिबन्धविनाशने । कृष्णाधरामृतास्वादसिद्धिरत्र न संशयः ।।६।। आनन्दाय परमानन्दाय श्रीकृष्णास्यं कृपानिधिः । दैवोद्धारप्रयत्नात्मा स्मृतिमात्रार्तिनाशनः ।॥७॥ श्रीभागवतगूढार्थप्रकाशनपरायणः। साकार ब्रह्मवादैकस्थापको वेदपारगः ।।८।। मायावादनिराकर्ता, सर्ववादिनिरासकृत् । भक्तिमार्गाब्जमार्तण्डः स्त्रीशूद्राद्युद्धृतिक्षमः ।।९।। अंगीकृत्यैव गोपीशवल्लभीकृतमानवः । अंगीकृतौ समर्यादो महाकारुणिको विभुः ।।१०।। अदेयदानदक्षश्च महोदारचरित्रवान् । प्राकृतानुकृतिब्याजमोहितासुरमानुषः ॥११॥ वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम् । जनशिक्षाकृते कृष्णभक्तिकृन्निखिलेष्टदः ।॥१२॥ सर्वलक्षणसंपन्नः श्रीकृष्णज्ञानदो गुरुः । स्वानंदतुन्दिलः पद्मदलायतविलोचनः ।॥१३॥ कृपाद्दग्वृष्टिसंहृष्टः दासदासीप्रियः पति । रोषदृक्पातसंप्लुष्टः भक्तद्विट् भक्तसेवितः ।।१४।। सुखसेव्यो दुराराध्यो दुर्लभांघ्रिसरोरुहः । उग्रप्रतापो वाक्सीधुपूरिताशेष सेवकः ।।१५।। श्री भागवतपीयुषसमुद्रमथनक्षमः । तत्सार भूतरासस्त्रीभावपूरितविग्रहः ।।१६।। सान्निध्यमात्रदत्त श्रीकृष्णप्रेमा विमुक्तिदः । रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः ।।१७।। विरहानुभवैकार्थसर्वत्यागोपदेशकः । भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः ।।१८।। यागादौ भक्तिमार्गेकसाधनत्वोपदेशकः । पूर्णानंदः पूर्णकामो वाक्पतिर्विबुधेश्वरः ।।१९।। कृष्णनामसहस्त्रस्यवक्ता भक्तपरायणः । ।।२०।। भक्त्याचारोपदेशार्थनानावाक्यनिरूपकः स्वार्थोज्झिताखिलप्राणप्रियस्तादृशवेष्टितः । स्वदासार्थकृताशेषसाधनः सर्वशक्तिधृक् ।।२१।। भुवि भक्तिप्रचारैककृते स्वान्वयकृत्पिता । स्ववंशेस्थापिताशेष स्वमाहात्म्यः स्मयापहः ॥२२॥ पतिव्रतापतिः पारलौकिकैरहिकदानकृत् । निगूढ़हृदयोऽनन्यभक्तेषुज्ञापिताशयः ।॥२३॥ उपासनादिमार्गातिमुग्धमोहनिवारकः । भक्तिमार्गे सर्वमार्गवैलक्षण्यानुभूतिकृत् ।।२४।। पृथक्शरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् । प्रतिक्षणनिकुञ्जस्थलीलारस सुपूरितः ।।२५।। तत्कथाक्षिप्तचित्तस्तद्विस्मृतान्यो व्रजप्रियः । प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहः प्रियः ।।२६।। भक्तेच्छापूरकः सर्वाज्ञातलीलोऽतिमोहनः । सर्वासक्तो भक्तमात्रासक्तः पतितपावनः ।।२७।। स्वयशोगानसंहृष्टः हृदयांभोजविष्टरः । यशः पीयूषलहरीप्लावितान्यरसः परः ।।२८।। लीलामृतरसार्द्रार्द्राकृताखिलशरीरभृत् । गोवर्धनस्थित्युत्साहस्तल्लीलाप्रेमपूरितः ।॥२९॥ यज्ञभोक्ता यज्ञकर्ता चतुर्वर्गविशारदः । सत्यप्रतिज्ञस्त्रिगुणातीतो नयविशारदः ।॥३०॥ स्वकीर्तिवर्धनस्तत्वसूत्रभाष्यप्रदर्शकः । मायावादाख्यतूलाग्निर्ब्रह्मवादनिरूपकः ।॥३१॥ अप्राकृताखिलाकल्पभूषितः सहजस्मितः । त्रिलोकीभूषणं भूमिभाग्यं सहजसुंदरः ।।३२।। अशेषभक्तसंप्रार्थ्यचरणाब्जरजोधनः । इत्यानन्दनिधेः प्रोक्तं नाम्नामष्टोत्तरंशतम् ।।३३।। श्रद्धाविशुद्धबुद्धिर्यः पठत्यनुदिनं जनः । स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम् ।।३४।। तदप्राप्तौ वृथा मोक्षस्तदाप्तौ तद्गतार्थता । अतः सर्वोत्तमं स्तोत्रं जप्यं कृष्णरसार्थिभिः ।॥३५॥