У нас вы можете посмотреть бесплатно श्रीभगवन्मानसपूजास्तोत्रम् || BhagvanManasPooja Stotram || Jaydeep Kanabar или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Music : Jaydeep Kanabar Lyrics : Shri Mad Adi Shankaracharya Singer : Jaydeep Kanabar Composition : Traditional ________________________________________________________________________ हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मुकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन् मणिव्रातभ्राजत्कनकवरपीठं भज हरे । सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः गृहाणेदं दूर्वाफलजलवदर्घ्यं मुररिपो ॥ २ ॥ त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं भजस्वेमं पञ्चामृतफलरसाप्लावमघहन् । द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥ तडिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण प्रलम्बारिभ्रातर्मृदुलमुपवीतं कुरु गले । ललाटे पाटीरं मृगमदयुतं धारय हरे गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥ दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं मुखं दीपेनेन्दुप्रभ विरजसं देव कलये । इमौ पाणी वाणीपतिनुत सकर्पूररजसा विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥ सदातृप्ताऽन्नं षड् रसवदखिलव्यञ्जनयुतं सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् । यशोदासूनो तत् परमदययाऽशान सखिभिः प्रसादं वाञ्छाद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥ सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् । सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥ विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी- युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे । तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं चतुर्वारं विष्णो जनिपथगतिश्चान्त विदुषा ॥ ८ ॥ नमस्कारोऽष्टाङ्ग:सकलदुरितध्वंसनपटुः कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त त इयम् । तव प्रीत्यै भूयादहमपि च दासस्तव विभो कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥ सदा सेव्यः कृष्ण: सजलघननीलः करतले दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् । कदाचित् कान्तानां कुचकलशपत्रालिरचना- समासक्तः स्निग्द्धै:सह शिशुविहारं विरचयन् ॥ १० ॥ मणिकर्णीच्छया जातमिदं मानसपूजनम् । यः कुर्वीतोषसि प्राज्ञस्तस्य कृष्णः प्रसीदति ॥ ११ ॥ ______________________________________________________________________ For More Videos please go to My Youtube Channel and Don't Forget to Subscribe my channel : Nachiket & Nityashree (Kids) / @nachiketnityashree9705 Jaydeep Kanabar / jaydeepkanabar You Can Follow Me On : / jaydeep.kanabar.391 / jaydeep_kanabar_official #श्रीमद्आद्यशङ्कराचार्यकृत #Stotram #chants