У нас вы можете посмотреть бесплатно Gadyasangraha (English) - ०१ सत्त्वशीलः - भागः १ (lesson) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#gadya #sanskritprose #vetal #sanskritstory गद्यसङ्ग्रहः - A collection of prose literature, prescribed for Chittoor Samartha level 4. Sattvashila, a story found in Vetala pancha vimsati compiled by Sri S N Shastri and Prof H V Kocher. पाठः ०१ - सत्त्वशीलः (भागः १) (सत्त्वशीलचण्डसिंहवर्णना) (Explanation in Tamil by Smt Visalakshi Sankaran) १. सत्त्वशीलः (वेतालपञ्चविंशतेः) रचयितारः — श्री सुरेन्द्रनाथशास्त्री, विद्वान् आचार्यः श्री हरिवंशश्च १. पूर्वाम्बुधेस्तटे ताम्रलिप्तीति प्रसिद्धा पूरस्ति । तस्यां चण्डसिंहाभिधो धराधिपो अभूत् यः खलु पराङ्मुखः पराङ्गनासु न तु समराङ्गणेषु, आहर्ता वैरिसम्पदां न च परकीयसम्पदाम् । २. तस्य भूपतेः सिंहद्वारे कदाचिज्जनप्रियः कश्चन राजपुत्रो, दक्षिणाशातः समागतः सत्त्वशीलाख्यः । स च तत्र, नृपं प्रत्यात्मानं निवेद्य, नैर्धन्यादपरैः राजकुमारैः सह कार्पटिको भूत्वा, बहून्यब्दानि नृपं परिचरन्नलब्धफल एवातिष्ठत् । सर्वदा चाकरोच्चेतसि - “यदि राजकुले जन्म किमीदृशं निर्धनत्वम् ? अयमपि नृपः क्षुधावसीदन्तमपि सेवमानं मां नावलोकयति । किमेतत् ?” इति । ३. एकदा स नरेन्द्रः तस्मिन् लगुडकरे अग्रेसरे कार्पटिके धावति, ससैनिकः मृगाटवीम् अविशत् । कृताखेटेन तेन, महान्तं मत्तसूकरं विलोक्य, तम् अनुधावता वनान्तरम् अतिदूरे वर्तमानं प्रापि । तस्मिन् महावने हारितसूकरः स नृपवरो दिङ्मोहम् अगच्छत् । परिभ्रष्टसैनिकः स खल्वेकाकिना तेन पदातिना क्षुत्तृडर्दितेन कार्पटिकेन तत्प्राणरिरक्षुणा वाताश्वपृष्ठगः अपि समनुसृतः। ४. तथाविधम् अन्वायान्तं तमवलोक्य सस्नेहम् अवादीत् स भूपतिः - “वेत्सि कच्चिद्यथागतं मार्गम् ?” तत् आकर्ण्य बद्धाञ्जलिना तेन अवादि “स्वामिन्, वेद्मि सम्यक् । क्षणं विश्राम्यतु, प्रभुस्तावदत्र ललाटन्तपः तपति भगवान् सप्तसप्तिः ।” श्रुत्वा एतस्य उपरोधम् अभाषत राजप्रवर — “एवञ्चेत्तर्हि क्वापि पानीयं प्रेक्ष्यतां भवता” इति ।