У нас вы можете посмотреть бесплатно Nitishtakam || murkh paddhati || vachan || (श्लोक १-११) || नीतिशतकं मुर्खपद्धति वाचन или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
मंगलाचरणः- दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकनामाय नमः शान्ताय तेजसे ॥ १॥ अथ मूर्ख पद्धति- बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥२॥ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विग्धं ब्रह्मापि नरं न रञ्जयति ॥ ३॥ प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङ्कुरा - त्समुद्रमपि संतरेत्प्रचलदुर्मिमालाकुलम् ॥ भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४॥ लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन्शशविषाणमासादयेन् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५॥ व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्रमणीं शिरीषकुसुमप्रान्तेन सन्नह्यति । माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ ६॥ स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः । विशेषतः सर्वविदां समाजेविभूषणं मौनमपण्डितानाम् ॥ ७॥ यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवम् तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतम् तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ८॥ कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरूपमरसं प्रीत्या खादन्नरास्थि निरामिषम् । सुरपितमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९॥ शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १०॥ My other channel:- / @prachidwivedi1103 Please like, comment and share my video and please subscribe to my channel and press the bell icon 🙏🙏🙏🙏🚩🚩🚩🌺🌺🌺🌺🌷🌷🌷🌺🙏🌺🙏🌺🙏🙏🚩🚩