У нас вы можете посмотреть бесплатно 6/16 Brahma Sutram | ப்ரஹ்மஸூத்ரம் | Tamil with English subtitles| 1.1.1 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Brahma Sutram (Day 6) | ப்ரஹ்மஸூத்ரம் | Tamil | 1.1.1 जिज्ञासाधिकरणम् अथातो ब्रह्मजिज्ञासा ॥ १ ॥ तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात् । मङ्गलस्य च वाक्यार्थे समन्वयाभावात् । अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति । पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् । सति च आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम् । स्वाध्यायानन्तर्यं तु समानम् । नन्विह कर्मावबोधानन्तर्यं विशेषः; न; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । यथा च हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः । शेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात् । धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्च । अभ्युदयफलं धर्मज्ञानम् , तच्चानुष्ठानापेक्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , न चानुष्ठानान्तरापेक्षम् । भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात् । इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम् । चोदनाप्रवृत्तिभेदाच्च । या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम् । अवबोधस्य चोदनाजन्यत्वात् , न पुरुषोऽवबोधे नियुज्यते । यथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत् । तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते — नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं च । तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च, शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च; न विपर्यये । तस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते ॥ अतःशब्दः हेत्वर्थः । यस्माद्वेद एव अग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति — ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इत्यादिः; तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयति — ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिः । तस्मात् यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या ॥ Voice of Rishis Sri Ramanacharana Tirtha (Nochur) Swami https://www.voiceofrishis.org (C65) Chapters: 00:00:00 - Dhyāna Slokas 00:04:15 - Recap BS 1.1.1 - Jijñāsādhikarana 00:30:23 - BS 1.1.1 contd... Dharma jijñāsā and Brahma jijñāsā compared 00:34:33 - Two planes of Sadhana - Being & Becoming 00:43:36 - Knowing/Recognising the ever-attained truth 00:47:45 - Who deserves this knowledge? Sadhana one should do for that 00:56:38 - The word 'ataha' in the sūtra explained