У нас вы можете посмотреть бесплатно Vishnupurana (English) — Amsa 3 — Adhyaya 9&10 — Slokas 23-33 & 1-7 — Session 17 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#vishnupurana #Sridhariyam #vishnu #purana #surya • Vishnupurana - Amsa 3 - English The Vishnu Purana is one of the eighteen Mahapuranas, and it primarily focuses on the teachings about Lord Vishnu. The text is believed to have been composed between the 3rd and 5th centuries CE, and it consists of six parts, or amshas, each of which contains several chapters. It is believed to have been said Saga Parāśara Viṣṇupurāṇa - Amśa 3 - Session 17 नवमाध्याये श्लोकाः २३ - ३३ दशमाध्याये श्लोकाः १ - ७ (Explanation in English by Smt Visalakshi Sankaran) ॥ अथ तृतीयोंशः ॥ ॥ अथ नवमोऽध्यायः ॥ (ब्रह्मचर्याद्याश्रमचतुष्टयवर्णनम्) यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥२३॥ चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥२४॥ पुत्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥२५॥ त्रैवर्गिकांस्त्यजेत् सर्वानारम्भानवनीपते । मित्रादिषु समो मैत्रस्समस्तेष्वेव जन्तुषु ॥२६॥ जरायुजाण्डजादीनां वाड्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥२७॥ एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते ॥२८॥ प्राणयात्रानिमित्तं च व्यंगारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥२९॥ कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु सर्वान् परित्यज्य परिव्राड् निर्ममो भवेत् ॥३०॥ अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥३१॥ कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति । विप्रस्तु भैक्ष्योपहितैर्हविर्भिः चिताग्निकानां व्रजति स्म लोकान् ॥३२॥ मोक्षाश्रमं यश्चरते यथोक्तं शुचिस्सुखं कल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिरिव प्रशान्तः स ब्रह्मलोकं श्रयते द्विजातिः ॥३३॥ इति श्रीविष्णुपुराणे तृतीयेंशे नवमोऽध्यायः ॥ ॥ अथ दशमोऽध्यायः ॥ (जातकर्मादिक्रियायाः कन्यायाश्च लक्षणनिरूपणम्) सगर उवाच कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥१॥ नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः ॥२॥ और्व उवाच यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यामि शृणुष्वैकमना मम ॥३॥ जातस्य जातकर्मादिक्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥४॥ युग्मांस्तु प्राङ्मुखान् विप्रान् भोजयेन्मनुजेश्वर । यथा वृप्तिस्तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥५॥ दध्ना यवैः सबदरैर्मिश्रान् पिण्डान् मुदा युतः । नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥६॥ प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् । कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते ॥७॥ The text in Sanskrit along with English translation is available at https://archive.org/details/vishnu-pu... Bhagavata Mahatmyam playlist • Srimad-bhagavata-mahatmyam Srimad bhagavatam with the commentary of Sridhara Swamin Skanda 1 - • Srimad-bhagavatam Skandha 01 Skanda 2 - • Srimad-bhagavatam Skandha 02 Skanda 3 - • Srimad-bhagavatam Skandha 03 Skanda 3 - • Srimad-bhagavatam Skandha 03