У нас вы можете посмотреть бесплатно Dhyanam | Rishikesh Jnana Yajna 2023 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Voice of Rishis Ramanacharanatirtha Sri Nochur Venkataraman www.voiceofrishis.org ****** Slokas for Contemplation Selected Slokas from Sarva-Vedanta-Siddhanta-SaraSangraham स्वात्मन्यनस्तमयसंविदि कल्पितस्य व्योमादि-सर्वजगतः प्रददाति सत्ताम्। स्फूर्तिं स्वकीय-महसा वितनोति साक्षाद् यद्ब्रह्म तत्त्वमसि केवल-बोधमात्रम्॥ ७७७ सम्यक् समाधिनिरतैर्विमलान्तरङ्गे साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम्। सन्तुष्यते परमहंस-कुलैरजस्रं यद्ब्रह्म तत्त्वमसि केवल-बोधमात्रम्॥ ७७८ अन्तर्बहिः स्वयमखण्डितमेकरूपम् आरोपितार्थवदुदञ्चति मूढबुद्धेः। मृत्स्नादिवद् विगतविक्रियमात्मवेद्यं यद्ब्रह्म तत्त्वमसि केवल-बोधमात्रम्॥ ७७९ श्रुत्युक्तमव्ययमनन्तमनादिमध्यम् अव्यक्तमक्षरमनाश्रयमप्रमेयम्। आनन्दसद्घनमनामयमद्वितीयं यद्ब्रह्म तत्त्वमसि केवल-बोधमात्रम्॥ ७८० Selected Slokas from Vivekachoodamani मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाभितः तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम्। यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्॥ २५१ निद्राकल्पितदेशकालविषयज्ञात्रादि-सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः। यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत् तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्॥ २५२ वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदापराणुसकलं ब्रह्माद्वितीयं श्रुतेः। ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैव ध्रुवम्॥ ३९५ किमपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम्। निरवधिगगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ॥ ४०९ प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसम्बन्धदूरम्। निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ॥ ४१० अजरममरमस्ताभासवस्तुस्वरूपं स्तिमितसलिलराशिप्रख्यमाख्याविहीनम्। शमितगुणविकारं शाश्वतं शान्तमेकं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ॥ ४११ जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम्। देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि॥ २५४ यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः। शुद्धचिद्घनमनादिवस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५५ षड्भिरूर्मिभिरयोगि योगिहृद्भावितं न करणैर्विभावितम्। बुद्ध्यवेद्यमनवद्यभूति यद् ब्रह्म तत्त्वमसि भावयात्मनि॥ २५६ भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम्। निष्कलं निरुपमानमृद्धिमद् ब्रह्म तत्त्वमसि भावयात्मनि॥२५७ जन्मवृद्धिपरिणत्यपक्षय-व्याधिनाशनविहीनमव्ययम्। विश्वसृष्ट्यवनघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि॥ २५८ अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम्। नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५९ एकमेव सदनेककारणं कारणान्तरनिरासकारणम्। कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६० निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम्। नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६१ यद्विभाति सदनेकधा भ्रमात् नामरूपगुणविक्रियात्मना। हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि॥ २६२ यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम्। सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६३ उक्तमर्थमिममात्मनि स्वयं भावय प्रथितयुक्तिभिर्धिया। संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति॥ २६४ स्वंबोधमात्रं परिशुद्धतत्त्वं विज्ञाय सङ्घे नृपवच्च सैन्ये। तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्मणि विश्वजातम्॥ २६५ ***