У нас вы можете посмотреть бесплатно पाशुपतास्त्र स्तोत्रं (वनस्थ योगी श्री ६ श्री गुरु श्री शिव दत्त स्मारक गड्डी , जोधपुर ) 9414849604 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
अथ पाशुपतास्त्रस्तोत्रं - ईश्वर उवाच -वक्ष्ये पाशुपतास्त्रेण शान्तिजापादि पूर्वतः । पादतः पूर्वनाशो हि फडन्तं चापदादिनुत् ॥ ॐ नमो भगवते महापाशुपतायातुलबलवीर्यपराक्रमाय त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोद्यताय (नानाप्रहरणयोग्यताय) सर्वाङ्गरक्ताय भिन्नाञ्जनचयप्रख्याय श्मशानवेतालप्रियाय सर्वविघ्ननिकृन्तनरताय (सर्वविघ्ननिकृन्तनाय)सर्वसिद्धिप्रदाय भक्तानुकम्पिने असङ्ख्यवक्त्रभुजापादाय तस्मिन्सिद्धाय वेतालवित्रासिने शाकिनीक्षोभजनकाय व्याधिनिग्रहकारिणे पापभञ्जनाय सूर्यसोमाग्निनेत्राय विष्णुकवचाय खड्गवज्रहस्ताय यमदण्डवरुणापाशाय रूद्रशूलाय ज्वलज्जिह्वाय सर्वरोगविद्रावणाय ग्रहनिग्रहकारिणे दुष्टनागक्षयकारिणे । ॐ कृष्णपिङ्गलाय फट् । हूङ्कारास्त्राय (क्रूराय) फट् । वज्रहस्ताय फट् । शक्तये फट् । दण्डाय फट् । यमाय फट् । खड्गाय फट् । नैरृताय फट् । वरुणाय फट् । वज्राय फट् । पाशाय फट् । ध्वजाय फट् । अङ्कुशाय फट् । गदायै फट् । कुबेराय फट् । (कुवेशाय फट्) त्रिशूलाय फट् । मुद्गराय फट् । चक्राय फट् । पद्माय फट् । नागास्त्राय फट् । ईशानाय फट् । खेटकास्त्राय फट् । मुण्डाय फट् । मुण्डास्त्राय फट् । कङ्कालास्त्राय फट् । पिच्छिकास्त्राय फट् । क्षुरिकास्त्राय फट् । ब्रह्मास्त्राय फट् । शक्त्यस्त्राय फट् । गणास्त्राय फट् । सिद्धास्त्राय फट् । पिलिपिच्छास्त्राय फट् । गन्धर्वास्त्राय फट् । पूर्वास्त्रायै (मूर्वास्त्राय) फट् । दक्षिणास्त्राय फट् । वामास्त्राय फट् । पश्चिमास्त्राय फट् । मन्त्रास्त्राय फट् । शाकिन्यस्त्राय फट् । योगिन्यस्त्राय फट् । दण्डास्त्राय फट् । महादण्डास्त्राय फट् । नागास्त्राय (नमोऽस्त्राय नानास्त्राय नामास्त्राय) फट् । शिवास्त्राय फट् । ईशानास्त्राय फट् । पुरुषास्त्राय फट् । अघोरास्त्राय (वामदेवास्त्राय) फट् । सद्योजातास्त्राय फट् । हृदयास्त्राय फट् । महास्त्राय फट् । गरुडास्त्राय फट् । राक्षसास्त्राय फट् । दानवास्त्राय फट् । क्षौं नरसिंहास्त्राय फट् । त्वष्ट्रास्त्राय फट् । सर्वास्त्राय फट् । (खः फट् ।) नः फट् । वः फट् । पः फट् । (फः फट् ।) मः फट् । श्रीः फट् । फेः फट् । भूः फट् । भुवः फट् । स्वः फट् । महः फट् । जनः फट् । तपः फट् । (सत्यं फट् ।) सर्वलोक फट् । सर्वपाताल फट् । सर्वतत्त्व फट् । सर्वप्राण फट् । सर्वनाडी फट् । सर्वकारण फट् । सर्वदेव फट् । ह्रीं फट् । श्रीं फट् । हूं फट् । स्त्रुं फट् । स्वां फट् । लां फट् । वैराग्याय फट् । मायास्त्राय फट् । कामास्त्राय फट् । क्षेत्रपालास्त्राय फट् । हूङ्कारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । विघ्नेश्वरास्त्राय फट् । (गौः गां फट् ।) ख्रों ख्रौं फट् । ह्रौं ह्रों फट् । भ्रामय भ्रामय फट् । (सन्तापय सन्तापय फट् ।) छादय छादय फट् । उन्मूलय उन्मूलय फट् । त्रासय त्रासय फट् । सञ्जीवय सञ्जीवय फट् । विद्रावय विद्रावय फट् । सर्वदुरितं नाशय नाशय फट् । सकृदावर्तनादेव सर्वविघ्नान् विनाशयेत् । शतावर्तेन चोत्पातान्रणादौ विजयी भवेत् ॥ ३२२.२ ॥ घृतगुग्गुलहोमाच्च आसाध्यानपि साधयेत् । पठनात्सर्वशान्तिः स्याच्छस्त्रापाशुपतस्य च ॥ ३२२.३ ॥ इत्यादिमहापुराणे आग्नेये पाशुपतशान्तिर्नाम द्वाविंशत्यधिकत्रिशततमोऽध्यायः ॥ इति पाशुपतास्त्रस्तोत्रम् सम्पूर्णम् ।