У нас вы можете посмотреть бесплатно gurudev ashtakam | श्रीगुरुदेवाष्टकम् | विश्वनाथचक्रवर्ति रचित| или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
श्रीगुरुदेवाष्टकम् संसारदावानललीढलोक त्राणाय कारुण्यघनाघनत्वम् । प्राप्तस्य कल्याणगुणार्णवस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ १॥ महाप्रभोः कीर्तननृत्यगीत वादित्रमद्यन्मनसो रसेन । रोमाञ्चकम्पाश्रुतरङ्गभाजो वन्दे गुरोः श्रीचरणारविन्दम् ॥ २॥ श्रीविग्रहाराधननित्यनाना शृङ्गारतन्मन्दिरमार्जनादौ । युक्तस्य भक्तांश्च नियुञ्जतोऽपि वन्दे गुरोः श्रीचरणारविन्दम् ॥ ३॥ चतुर्विधश्रीभगवत्प्रसाद स्वाद्वन्नतृप्तान् हरिभक्तसङ्घान् । कृत्वैव तृप्तिं भजतः सदैव वन्दे गुरोः श्रीचरणारविन्दम् ॥ ४॥ श्रीराधिकामाधवयोरपार माधुर्यलीलागुणरूपनाम्नाम् । प्रतिक्षणास्वादनलोलुपस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ ५॥ निकुञ्जयूनो रतिकेलिसिद्ध्यै या यालिभिर्युक्तिरपेक्षणीया । तत्रातिदाक्ष्यादतिवल्लभस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ ६॥ साक्षाद्धरित्वेन समस्तशास्त्रै- रुक्तस्तथा भाव्यत एव सद्भिः । किन्तो प्रभोर्यः प्रिय एव तस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ ७॥ यस्य प्रसादाद्भगवत्प्रसादो यस्याप्रसादान् न गतिः कुतोऽपि । ध्यायन् स्तुवंस्तस्य यशस्त्रिसन्ध्यं वन्दे गुरोः श्रीचरणारविन्दम् ॥ ८॥ श्रीमद्गुरोरष्टकमेतदुच्चै- र्ब्राह्मे मुहूर्ते पठति प्रयत्नात् । यस्तेन वृन्दावननाथ साक्षात् सेवैव लभ्या जुषणोऽन्त एव ॥ ९॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीगुरुदेवाष्टकं सम्पूर्णम् ।