У нас вы можете посмотреть бесплатно Sriman Narayaneeyam Dashakam 81 Recitation | Sri Shankararama Sharma или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Dashakam 81 of Sriman Narayaneeyam has been recitation by Sri Shankararama Sharma in this video. 0:00|| दशकम् – ८१ नरकासुरवधं तथा सुभद्राहरणम् || छन्दः – मन्दाक्रान्ता 0:10 स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूयः सह खलु तया याज्ञसेनी-विवाहम् । पार्थ-प्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां शक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥१॥ 0:40 भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहना-मस्करी शक्रसूनुः । तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं शक्रप्रस्थं प्रिय-सख-मुदे सत्यभामा-सहायः ॥२॥ 1:12 तत्र क्रीडन्नपि च यमुना-कूल-दृष्टां गृहीत्वा तां कालिन्दीं नगरमगमः खाण्डव-प्रीणिताग्निः । भ्रातृ-त्रस्तां प्रणय-विवशां देव पैतृष्वसेयीं राज्ञां मध्ये सपदि जहृषे मित्रविन्दामवन्तीम् ॥३॥ 1:43 सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां बध्वा सप्तापि च वृष-वरान्सप्त-मूर्तिर्निमेषात् । भद्रां नाम प्रददुरथ ते देव सन्तर्दनाद्या: तत्सोदर्या वरद भवतः साऽपि पैतृष्वसेयी ॥४॥ 2:15 पार्थाद्यैरप्यकृत-लवनं तोय-मात्राभिलक्ष्यं लक्षं छित्वा शफरमवृथा लक्ष्मणां मद्रकन्याम् । अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये शुश्रोथ त्वं सुरपति-गिरा भौम-दुश्चेष्टितानि ॥५॥ छन्दः – शिखरिणी 2:45 स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगम: वहन्नङ्के भामामुपवनमिवाराति-भवनम् । विभिन्दन् दुर्गाणि त्रुटित-पृतना-शोणित-रसैः पुरं तावत्प्राग्ज्योतिषमकुरुथा: शोणितपुरम् ॥६॥ 3:11 मुरस्त्वां पञ्चास्यो जलधि-वन-मध्यादुदपतत् स चक्रे चक्रेण प्रदलित-शिरा मङ्क्षु भवता । चतुर्दन्तैर्दन्तावलपतिभिरिन्धान-समरं रथाङ्गेन छित्वा नरकमकरोस्तीर्णनरकम् ॥७॥ 3:40 स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजञ्चैकं दत्वा प्रजिघयिथ नागान्निज-पुरीम् । खलेनाबद्धानां स्वगत-मनसां षोडश पुनः सहस्राणि स्त्रीणामपि च धन-राशिं च विपुलम् ॥८॥ छन्दः – शार्दूलविक्रीडितम् 4:07 भौमापाहृत-कुण्डलं तददितेर्दातुं प्रयातो दिवं शक्राद्यैर्महितः समं दयितया द्यु-स्त्रीषु दत्त-ह्रिया । हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम: तत्तु श्री-मद-दोष ईदृश इति व्याख्यातुमेवाकृथाः ॥९॥ छन्दः – स्रग्धरा 4:40 कल्पद्रुं सत्यभामा-भवन-भुवि सृजन्द्व्यष्ट-साहस्र-योषाः स्वीकृत्य प्रत्यगारं विहित-बहु-वपुर्लालयन्केलिभेदैः । आश्चर्यान्नारदालोकित-विविध-गतिस्तत्र तत्रापि गेहे भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥१०॥ 5:15 || इति श्रीमन्नारायणीये नरकासुरवधं तथा सुभद्राहरणं चेति एकाशीतितमं दशकं समाप्तम् || Take our “Meaning of Narayaneeyam – Discourses in English” to know the meaning of Narayaneeyam verses https://www.sanskritfromhome.org/cour... SUBSCRIBE TO OUR CHANNEL FOR MORE CONTENT https://www.youtube.com/c/LearnSanskr... For Free Course materials, Free audio and video access, visit https://www.sanskritfromhome.in/ THE LARGEST ONLINE STRUCTURED SANSKRIT E-LEARNING and REGISTER NOW FOR FREE To buy our products, visit https://digitalsanskritguru.com/?v=c8... Contribute now, to help us create this transformation: in INR https://pages.razorpay.com/pl_F5cHbXI... Contribute now, to help us create this transformation: in USD https://www.paypal.com/donate/?cmd=_s... For receiving regular updates, follow us on Facebook - / sanskritfromhome Twitter - / sfhvyoma Instagram - / sanskrit_from_home For any queries on your Sanskrit learning needs sanskritfromhome@vyomalabs.in Whatsapp or Call us: 9480865623 #narayaneeyam #chanting #vyomasanskrit