У нас вы можете посмотреть бесплатно स्वधा स्तोत्र (वनस्थ योगी श्री६श्री गुरु श्री शिवदत्त स्मारक गड्डी ,जोधपुर)9414849604, 9829335510 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
अथ स्वधास्तोत्रम् ब्रह्मोवाच स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नर । मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥१॥ स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् ।श्राद्धस्य फलमाप्नोति कालस्य तर्पणस्य च॥२॥ श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः । लभेच्छ्राद्धशतानां च पुण्यमेव न संशयः ॥३॥ स्वधास्वधा स्वधेत्येवं त्रिसन्ध्यं यःपठेन्नरः।प्रियां विनीतां स लभेत्साध्वीं पुत्रं गुणान्वितम्४ पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी । श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥५॥ बहिर्गच्छ मन्मनसः पितॄणां तुष्टिहेतवे । सम्प्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे ॥६॥ नित्या त्वं नित्यस्वरूपासि गुणरूपासि सुव्रते । आविर्भावस्तिरोभावः सृष्टौ च प्रलये तव ॥७॥ ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा । निरूपिताश्चतुर्वेदे षट् प्रशस्ताश्च कर्मिणाम् ॥८॥ पुरासीस्त्वं स्वधागोपी गोलोके राधिकासखी।धृतोरसि स्वधात्मानं कृतं तेन स्वधा स्मृता॥९॥ इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि।तस्थौ च सहसा सद्यः स्वधा साविर्बभूव ह॥१०॥ तदा पितृभ्यः प्रददौ तामेव कमलाननाम् । तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः ॥११॥ स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः । स स्नातः सर्वतीर्थेषु वेदपाठफलं लभेत् ॥१२॥ ॥ इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे ब्रह्माकृतं स्वधास्तोत्रं सम्पूर्णम् ॥